तहक्षी™ Tehxi
तहक्षी™ Tehxi

@yajnshri

2 تغريدة 545 قراءة Apr 02, 2024
गायत्री की 24 मुद्राये जानिए....
#Thread
            जपस्य पूर्व मुद्रा:
विभिन्न प्रकार के मंत्र,तंत्र,जप,योग साधना विशेषकर  संध्योपासना विधि के पूर्व प्रकरण में दोनों हाथों की उँगलियों को मिलाकर कुछ विशेष प्रकार की आकृतियाँ बनाई जाती हैं, इन्हें मुद्राएँ कहते हैं, अक्षरों के क्रम से मुद्रा निर्धारण में मुद्राओं की संख्या २४ हैं, प्रत्येक अक्षर की एक मुद्रा है, देवताओं की प्रसन्नता, चित्त की शुद्धि और विविध रोगों के नाश में मुद्राओं से बहुत सहायता मिलती है। मुद्रा तत्त्व को समझकर इनका साधन करना चाहिए।
अतः परं प्रवक्ष्यामि वर्णमुद्राः क्रमेण तु ।।
सुमुखं सम्पुटं चैव, विततं विस्तृतं तथा ॥ १॥
द्विमुखं त्रिमुखं चैव चतुः पंचमुखं तथा ।।
षण्मुखाधोमुखं चैव व्यापकांजलिकं तथा ॥ २॥
शकटं यमपाशं च ग्रंथितं सन्मुखोन्मुखम् ।।
प्रलम्बं मुष्टिकं चैव मत्स्यकूर्मं वराहकम्॥ ३॥
सिंहाक्रान्तं, महाक्रांन्तं, मुद्गरं, पल्लवं तथा ।।
चतुर्विंशतिमुद्राक्षाज्जजापादौ परिकीर्तिततः ॥ ४॥
अर्थात्- गायत्री के अनुसार २४ मुद्राएँ इस प्रकार हैं- (१) सुमुखम् (२) सम्पुटम्  (३) विततम्  (४) विस्तृतम्  (५) द्विमुखम् (६) त्रिमुखम् (७) चतुर्मुखम् (८) पंचमुखम् (९) षडमुखम्  (१०) अधोमुखम्  (११) व्यापकाञ्जलिम्  (१२) शकटम्  (१३) यम पाशम्  (१४) ग्रंथितम्  (१५) सन्मुखोन्मुखम्  (१६) प्रलम्बम्  (१७) मुष्टिकम्  (१८) मत्स्यम्  (१९) कूर्मम्  (२०) बराहकम्  (२१) सिंहाक्रान्तम्  (२२) महाक्रान्तम्  (२३) मुद्गरम्  (२४) पल्लवम्
ये 24 मुद्राएं हैं, जो जप के आदि में दिखलाई जाती हैं। इनके दिखाए बिना जपादि का व्यर्थ होना कहा गया है। इन्हें किसी अभ्यासी विज्ञजन से अथवा उपासना ग्रंथों में उपलब्ध चित्रों के माध्यम से निम्न प्रकार जाना जा सकता है -
🙏🏻 जप के पूर्व की २४ मुद्राएँ करने की विधि -
आकुञ्चिताङ्‌गुलिकरौ संयुतौ सुमुखं भवेत् ॥ १ ॥
कोषाकारं संपुटं स्याद् विततं विस्तृतं भवेत् ॥२-३ ॥
विस्तीर्णो विततौ हस्तावन्योऽन्याङ् गुलिसंयुतौ ॥ ४ ॥
कनिष्ठानामिकायुक्तौ हस्तौ द्वौ द्विमुखं भवेत् ॥५॥
तदेव मध्यमायुक्तं त्रिमुखं परिकीर्तितम् ॥ ६ ॥
तदेव तर्जनीयुक्तं चतुर्मुखमुदीरितम् ॥ ७ ॥
तदेव स्यात् पञ्चमुखं मिलिताङ् गुष्ठकं यदि ॥ ८
तदेव षण्मुखं प्रोक्तं यद्याविष्टकनिष्ठकम् ॥ ९ ॥
आकुञ्चिताग्ग्रौ संयुक्तौ न्युब्जौ हस्तावधोमुखम् ॥ १०॥
उत्तानौ तादृशावेव व्यापकाञ्जलिकं करौ ॥ ११
अंगुष्ठ-द्वय-संयुक्तं मुष्टिद्वयमधोमुखम् ।
सम्प्रसार्य च तर्जन्यौ शक्टं मुनिसत्तमाः ॥ १२ ॥
मुष्टिं कृत्वा करौ योज्यौ तर्जन्यौ सम्प्रसार्य च ।
अकुञ्जिताग्रौ संयोज्य यमपाशं विदुर्बुधाः ॥ १३
अन्योन्यायतसंश्लिष्ट दशांगुलिक रावुभौ ।
अन्योन्यमभिबध्नीयात् ग्रन्धितं परिकीर्तिम् ॥ १४
कृत्वा करौ सम्पुटकौ पूर्व वामकरं सुधीः ।
अधोमुखेन दक्षेण योजयेत् चोन्मुखोन्मुखम् ॥ १५
अधः कोषांकृतिकरौ प्रलम्बं कोविदो विदुः ॥ १६
युतं मुष्टिद्वयं चैव सम्यङ् मुष्टिकमीरितम् ॥ १७ ॥
दक्षपाणिं पृष्ठदेशे वामपाणिंतले न्यसेत् ।
अंगुष्ठौ चालयेत् सम्यङ् मुद्रेयं मत्स्यरूपिणी ॥ १८ ॥
वामहस्ते च तर्जन्यां दक्षिणस्य कनिष्ठका ।
तथा दक्षिणतर्जन्यां वामांगुष्ठं नियोजयेत् ॥
उन्नतं दक्षिणांगुष्ठं वामस्य मध्यमादिकाः ।
अंगुलीयर्योजयेत् पृष्ठे दक्षिणस्य करस्य च ॥
वामस्य पितृतीर्थेन मध्यमानामिके तथा ।
अधोमुखे च ते कुर्याद्दक्षिणस्य करस्य च ॥
कूर्मपृष्ठ समं कुर्याद्दक्षपाणिं च सर्वतः ।
कूर्ममुद्रेयमाख्याता देवताध्यानकर्मणि ॥ १९ ॥
तर्जनीं दक्षहस्तस्य वामांगुष्ठे निवेश्य च ।
हस्ते हस्तं च बध्रीयात् कोलमुद्रा समीरिता ॥ २० ॥ प्रसारितांगुलिकरौ समीपं कर्णयोर्नयेत् ।
सिंहाक्रान्तं समुदितं गायत्रीजपतत्त्परैः ॥ २१ ॥
दर्शये च्छो त्रयोर्मध्ये हस्तावंगुलिपञ्जकौ ।
महाक्रान्ता भवेन्मुद्रा गायत्री हृदयं गता ॥ २२ ॥
मुष्टिं कृत्वा करं दक्षं वामे करतले न्यसेत् ।
उच्छ्रितञ्च करं कृत्वा मुद्गरं समुदाहृतम् ॥ २३ ॥
दक्षिणेन करेणैव चलितांगुलिना करः ।
वदनाभिमुखं चैव पल्लवं मुनिभिः स्मृतम् ॥ २४ ॥

جاري تحميل الاقتراحات...